SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १७७ “प्राधिमेकं दयोः कृत्वा यद्येका प्रतिपद्भवेत् । तयोः पूर्वकृतं ग्राह्यं तत्कर्ता दण्डभाग्भवेत्” इति । प्रतिपदिति प्रतिपत्तिरित्यर्थः । श्राधिविशेषे दण्डविशेषमाह विष्णुः । “गोचर्ममात्राधिका भुवमन्यस्य प्राधिकृत्वा तस्मादनिर्मायान्यस्य यः प्रयच्छेत्स बध्यः । ऊनां चेत्, षोडशसुवर्णं दण्डः,दति । माक्षिलेख्यमिझोर्लेख्यसिद्धिर्बलवतीत्याह कात्यायनः, "श्राधानं विक्रयो दानं लेख्यमाचिकृतं यदा ॥ एकक्रियाविरुद्धन्तु लेख्यं तत्रापहारकम्" इति । लेख्यमिद्धत्वाविशेषेऽपि सएवाह, "अनिर्दिष्टच निर्दिष्टमेकत्र च विलेखितम् । आकाशभूतमादाय अनादिष्टं च तद्भवेत् ॥ यद्यद्यदाऽस्य विद्येत तदादिष्टं विनिर्दिशेत्” इति । अयमर्थः । श्राधातुराधानकाले यविद्यमानं धनं निरूपित. खरूपं च, तद्धनमाधित्वेनादिष्टं, तनिर्दिष्टमित्युच्यते । तद्विपरीतन्तु धनमाधित्वेन कल्यमानमनिर्दिष्टमिति निर्दिशेदिति। निर्दिष्टवाविशेषे याज्ञवल्क्यः,___ "आधौ प्रतिग्रहे क्रौते पूर्वा तु बलवत्तरा"-इति । एकमेव क्षेत्रमेकस्याधिं कृत्वा किमपि ग्टहीत्वा पुनरन्यस्याधाय किमपि ग्टलाति, नत्र पूर्वस्यैव तत्क्षेत्रम्भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च योजनीयम् । ऋणादिषूत्तरक्रियायाः प्राबल्यमाह मएव, "सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया” इति । यद्येक क्षेत्रमेकस्याधिं कृत्वाऽन्यस्य विक्रोणोते, तत्राह वसिष्ठः, 23 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy