________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
“यः पूर्वोत्तरमाधाय विक्रिणीते तु तं पुनः ।
किमेतयोर्बलीयः स्यात् प्रोकेन बलवत्तरम्'-दति । प्राध्यादौनां योगपद्येऽप्याह सएव,
"कृतं यत्रैऋदिवमे दानमाधानविक्रयम् । त्रयाणामपि सन्देहे कथं तत्र विचिन्तयेत् ॥ त्रयोऽपि तद्धनं धायं विभजेयुर्यथाऽशतः ।
उभौ क्रियानुसारेण विभागोनं प्रतिग्रहो"-इति । एतदाधितोऽप्यधिकर्णिकविषयम् । ऋणपर्याप्ताधिनाशे वाह नारदः,
"विनष्टे मूलनाश: स्यात् देवराजकृतादृते"-इति । बहुमून्याधिनाशे धनिकं समर्पयेदित्युक्रम् । तत्र विशेषमाह मनु:,
"मूलेन तोषयेदेनमाधिस्तेनोऽन्यथा भवेत्” इति । गोप्याधिभोगे लाभहानिमाह याज्ञवल्क्यः,
“गोप्याधिभोगे नो वृद्धिः सोपकारोथ हापिते ।
नष्टो देयो विनष्टश्च देवराजकृतादृते"-इति । अयमर्थः । गोप्यम्याधेः ममयातिक्रमेण भोगे मति महत्यपि वृद्धिातव्या। मोपकारे मद्धिके भोग्याधौ हापिते व्यवहाराक्षमत्वं प्रापिते मति न वृद्धिः। गोप्याधिर्विकारं प्रापितः, पूर्ववकृत्वा देयः। विनष्टश्चेदात्यन्तिकनाशं प्राप्तश्चेत्तन्मून्या दिवारेणैव निवेद्यः । गोप्याधिभोगे नो वृद्धिरित्येतबलात्कारभोगविषयम् । अतएव मनुः,
For Private And Personal Use Only