SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ परापारमाधवः। श्राधीयते इत्याधिः। कृतकाले श्राधानकालएवेतद्दिवमाद्यवध्ययमाधिर्मया मोक्ष्यते, अन्यथा तवैव भविष्यतीत्येवं निरूपितकाले ! उपरिष्टात्मेवनीय इत्यर्थः । यावद्देयोद्यतः, रहौतधनप्रत्यर्पणावधिनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः, भोग्यः फलभोग्यादिः । ब्रहस्पतिरपि, "आधिर्बन्धः समाख्यातः स च प्रोतश्चतुर्विधः । जङ्गमः स्थावरश्चैव गोप्योभोग्यस्तथैवच ॥ यादृच्छिकः सावधिश्च लेख्यारूढ़ोऽथ माक्षिमान्” इति । श्राधिर्नाम बन्धः । म दिविधः, गोप्यो भोग्यश्च । पुनश्चैकैकशोविविधः, जङ्गमः स्थावरश्चेत्येवं चतुर्विधः। पुनरपि प्रत्येकं विविधः, यादृच्छिकः सावधिश्चेति। यावदृणन्तव न ददामि तावदयमाधिरित्येवं कालविशेषावधिशून्यतया कृतो यादृच्छिकः । कृतकालोपनेयः सावधिः । पुनश्च लेख्यारूढ़ः साक्षिमानिति विविधः । भरदाजः प्रकारान्तरेणाधेश्चातुर्विध्यमाह, “श्राधिश्चतुर्विधः प्रोको भोग्यो गोप्यस्तस्थेवच । अर्थप्रत्ययहेतुश्च चतुर्थस्वाज्ञया कृतः ॥ श्रावणात्पूर्वलिखितो भोग्याधिः श्रेष्ठ उच्यते । गोप्याधिस्तु परेभ्यः स्वन्दत्वा यो गोप्यते रहे। अर्थप्रत्ययहेतुर्य अर्थहेतुः स उच्यते।। श्राजाधिर्नामयो राज्ञा संसदि त्वाजया कृतः" इति । * स विनेय इत्यर्थः,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy