________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकागडम्।
१७३
"ढणकाष्ठेष्टकासूचकिण्वचर्मास्थिवर्मणम् ।
हेतिपुष्पफलानाञ्च वृद्धिस्तु न निवर्त्तते” इति । किण्वः सुराद्रव्योपादानभूतो मलविशेषः। चर्म वाणादिनिवारकफल्लकः। वर्म तनुचम्। हेतिरायुधम् । पुष्यफलयोयनिवृत्तिरत्यन्तसमृद्धवाधमणविषयः । अन्यथा त्रिगुणवृद्धिप्रतिपादकव्यासवचनविरोधः पूर्ववदिशेयः। वसिष्ठोऽपि,
"दण्डवास्थिश्टङ्गाणं मृण्मयानां तथैवच ।
अक्षया वृद्धिरेतेषां पुष्पमूलफलस्य च” इति । सहस्पतिरपि,
"शिखावृद्धिं कायिकाञ्च भोगलाभं तथैवच ।
धनी तावत्समादद्यात् यावन्मूलं न शोधितम्” इति । तदेवं, परिपूर्ण ग्रहीत्वाऽऽधिमित्यत्र श्राधेः परिपूर्णत्वनिरूपएप्रमागता मविशेषा वृद्धिर्निरूपिता।
इदानीमाधिर्निरूप्यते।
तत्र नारदः,
"अधिक्रियत इत्याधिः स विज्ञेयो दिलक्षणः । इतकालोपनेयश्च यावद्देयोद्यतस्तथा ॥
स पुनर्दिविधः प्रको गोप्योभोग्यस्तथैवच"-इति । ग्टहौतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्तमणे अधिक्रियते
For Private And Personal Use Only