________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
१७२
"शाककार्पामबीजेक्षौ षड्गुण परिकीर्तिता।
वदन्त्यष्टगुणान् काले मद्यस्खेहरमामवान्”--इति । कात्यायनोऽपि,
"तैलानाञ्चैव सर्वेषां मद्यानामथ सर्पिषाम् ।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च” इति । यत्र वृद्धिविशेषो न श्रूयते, तत्र द्विगुणैव । तथाच विष्णुः । "अनुकानां द्विगुण"-इति । अयं च वृड्युपरमः सत्प्रयोगे मकदाहरणे च वेदितव्यः । तथाच मनुः,
“कुमीदवृद्धिद्वैगुण्यं नात्येति मकदाहिता"-इति। उपचयार्थं प्रयुक्त द्रव्यं कुसौदं, तस्य वृद्धिः कुमीदवृद्धिः । द्वैगुण्यं नात्येति नातिकामति । यदि मकदाहिता सकृत्प्रयुक्ता। पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे, तस्मिन्नेव वा पुरुषे रेकसेकाभ्यां* प्रयोगान्तरकरणे द्वैगुण्यमतिक्रम्य पूर्ववत् वर्द्धते । मकदाहतेति पाठे शनैः शनैः प्रतिदिन प्रतिमासं प्रतिसंवत्सरं वाऽधमर्णादाहृत्य द्वैगुण्यमत्येतीति व्याख्येयम् । गौतमोऽपि। “चिरस्थाने द्वैगुण्यं प्रयोगस्य"इति । प्रयोगस्येत्येकवचननिर्देशन प्रयोगान्तरकरणे बैगुण्या तिक्रमोऽभिप्रेतः। चिरस्थाने, इति निर्देशाच्छनैः शनैः वृद्धिग्रहणे द्वैगएयातिक्रमोऽभिमतः । उक्तस्य दृड्युपरमस्य क्वचिद्रव्यविशेषेऽपवादमाह वृहस्पतिः,
* एकश फाभ्यां,-इति शा।
For Private And Personal Use Only