________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
"कान्तारगास्तु दशकं मामुद्रा विंशकं शतम्" इति । कान्तारगाः दुर्गमवर्मगन्तारः, ते प्रतिमामन्दशकं गतं दधुः । सामुद्रास्ममुद्रगन्तारः विंशकं शतं दधुरित्यर्थः । कारितायां तु न नियम इत्याह सएव,
"दधुर्वा वकृतां वृद्धिं सर्वे सर्वासु जातिषु" इति । सर्वे ब्राह्मणादयोऽधमाः । सबन्धके प्रबन्धके सर्वासु जातिषत्तमर्णानुभूतासु स्वाभ्युपगतां वृद्धिं दधुः। कचिदनगौकताऽपि वृद्धिर्भवति । तदाह विष्णुः,
“यो ग्टहीत्वा ऋणं पूर्वं दास्यामीति च मामकम् ।
न दद्यालोभतः पश्चात् स तस्मात् वृद्धिमाप्नुयात्" इति । सममेव मामकम् । प्रतिदिनकालावधिमङ्गौचत्य ग्रहौतमवृद्धिकं धनं यदि न प्राग्ददाति, तदा अवधेरनन्तरकालादारभ्य वर्द्धतएवेत्यर्थः । कालावधिमनङ्गीकृत्य स्खौकृतस्य धनस्य षण्मामादूद्धं वृद्धिर्भवतीत्याह नारदः,
"न वृद्धिः प्रौतिदत्तानां या बनाकारिता क्वचित् ।
अनाकारितमप्यूद्धं वत्सरार्द्धादिवर्धते"-इति । याचितकं ग्टहीत्वा देशान्तरगमने कात्यायनः,
“यो याचितकमादाय तमदत्वा दिशं व्रजेत् ।
ऊर्द्ध संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात्" इति। एतच्चाप्रतियाचितविषयम् । प्रतियाचिते तु मएवाह,
"कृत्वोद्धारमदत्वा यो याचितस्तु दिशं व्रजेत् । कई मासत्रयात्तस्य तद्धनं वृद्धिमाप्नयात्" इति ।
For Private And Personal Use Only