________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१६९
कृत्वोद्धार, थाचितकमादायेत्यर्थः । यस्तु याचितकं ग्टहीत्वा देशे एव स्थितोऽपि याचितकं न प्रयच्छति, तं प्रत्याह मएव,
"खदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् ।
तं ततोऽकारितां दृद्धिमनिच्छन्तञ्च दापयेत्”-इति । ततः, प्रतियाचनकालादारभ्येत्यर्थः ।
"याच्यमानं न वर्द्धत यावन्न प्रतियाचितम् ।
याच्यमानमदत्तश्चेत् वर्द्धते पञ्चकं मतम्" इति । निपादावपि सएव,
"निक्षिप्तं वृद्धिशेषञ्च क्रयविक्रयएवच ।
याच्यमानमदत्तं चेत् वर्द्धते पञ्चकं शतम्” इति । ग्टहीतपण्यमौल्यानर्पणविषये तु सएव,
"पण्यं ग्रहीत्वा यो मौल्यमदत्वैव दिशं व्रजेत् ।
ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिमाप्नुयात्” इति । एतच्चाप्रतियाचितविषयम् । अनाकारितवृद्धेरपवादो नारदेन दर्णितः,
"पण्यमूल्यं भतिासो दण्डो यश्च प्रकल्पितः ।
वृथादानाक्षिकपणं वर्द्धते नाविवचितम्” इति । वृथादानं, नटादिभ्यः प्रतिश्रुतम् । प्राक्षिकम्पणं द्यूतद्रव्यम् । विवक्षितं अनाकारितम् । पण्यमूल्यस्य वृद्घभावः, प्रवासप्रतियाचनाभावे । न्यामस्य तु वृदभावः, यथाऽवस्थाने प्रतियाचनाभावे च । अन्यथा कात्यायनवचनविरोधापत्तेः । सम्बताऽपि,
“न वृद्धिः स्त्रीधने लाभे निक्षिप्ते च यथास्थिते ।
For Private And Personal Use Only