________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
क्रौञ्चसारसहंसांश्च चक्रवाकं च कुकटम् । जालपादच शरभमहोरात्रेण शुध्यति ॥२॥
कौच्चादयः पतिविशेषा: प्रसिद्धाः। जालपादशरभौ यद्यप्यप्रसिद्धौ, तथापि पक्षिभिः समभिव्याहारात्तावपि पक्षिविशेषौ द्रष्टव्यौ। अत्र हत्वेत्ययाहारः । अहोरात्रेणैकोपवासेनेत्यर्थः । तथाच सम्बर्त्तः,
"चक्रवाकं तथा क्रौञ्चं तित्तिरि शुकसारिके। श्येनं ग्टधमुलूकञ्च तथा पारावतानपि ॥ टिट्टिभं जालपादश्च मछु कुक्कुटमेवच ।
एवं पक्षिषु सर्वेषु दिनमेकमभोजनम्” इति । ननु हंसादिबधे गोदानं मनुराह,
"हत्वा हम बलाकाञ्च वकं* वहिणमेव च ।
वानरं श्येनभासौ च स्पर्शयेद्वाह्मणाय गाम्" इति । याज्ञवल्क्योऽपि,
"हंसश्येनकपिक्रव्यान्जलस्थलशिखण्डिनः ।
भामञ्च हत्वा दद्यागामक्रव्यादांस्तु वत्मिकाम्” इति ॥ नायं दोषः । गोदानस्योपवासाशक्रधनिकविषयत्वात् ।
बलाकादिषु पूर्वानात् अन्यों प्रायश्चित्तमाह,
* चक्र,-इति मु। + न्यूनं,-इति मुः।
For Private And Personal Use Only