________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठोऽध्यायः ।
ईश्वरं सर्वलोकानां भकानां भद्रदायकम् ।
जानकीवल्लभं रामं मन्महे मौनिलोचनम् ॥ प्रकीर्णकप्रायश्चित्तप्रमागताहिताग्निसंस्कारः पञ्चमाध्याये निकपितः। अथ षष्ठेऽध्याये प्रकृतमेव प्रायश्चित्तमनुवर्तयिष्यमाणो मलि-- नौकरणमङ्करीकरणोपपातकानां प्रायश्चित्तानि प्राधान्येन विवक्षुः प्रथमं प्रतिजानौते,अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् । पराशरेण पूर्वोक्ता मन्वर्थेऽपि च विस्तृताम्॥१॥इति।
अथ प्रकीर्णकप्रायश्चित्तकथनानन्तरं मलिनौकरणरूपासु प्राणिहत्यासु प्रायश्चित्तं प्रवक्ष्यामि। हत्याखिति बहुवचनं मलिनोकरणाद्यवान्तरभेदाभिप्राथम् । मन्दबुद्धीनां स्मृत्यन्तरपालोचने सत्यापानतोविरोधबुद्धिरुदेति, न्यायदर्शिनां तु न तथेति सूचयितुं ऋष्यन्तरमम्मत्युपन्यामः । पराशरशब्देन वृद्धपराशरोविवक्षितः । मन्वर्थ मनुप्रोके धर्मशास्त्र विस्तुताम् । __ प्रतिज्ञातेवादौ मलिनीकरण विशेषस्य क्रौञ्चादिबधस्य प्राय वित्तमाह,
* नाम्ययं लोकोमुद्रितातिरिक्त पुस्तकेन । । उपमात कानां. ---इति मु ।
For Private And Personal Use Only