________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
“उन्मत्तेनैव मत्तेन तथा वाचान्तरेण* वा। यहत्तं यत्कृतं वाऽथ प्रमाणं नैव तद्भवेत् । यद्दालः कुरुते कार्यमस्वतन्त्रस्तथैवच । अकृतं तदपि प्राङः शास्त्रे शास्त्रविदो जनाः ॥ गर्भस्थसदृशो ज्ञेयः अष्टमावत्सराच्छिशयः । बाल श्राषोड़शादर्षात् पौगण्डश्चेति कथ्यते । परतो व्यवहारज्ञः खतन्त्रः पितराहते। जीवतोर्न स्वतन्त्रः स्थाज्जरयाऽपि समन्वितः ॥ तयोरपि पिता श्रेयान् बौजप्राधान्यदर्शनात् ।
प्रभाव बौजिनो माता तदभावे तु पूर्वजः" इति । केषुचित् कार्यविशेषेषु स्त्रीणामस्वातन्त्र्यमित्याह हारोतः,. “दाने वाऽधमने वाऽपि धर्मार्थ वाऽविशेषतः ।
श्रादाने वा विसर्ग वा न स्त्री स्वातव्यमर्हति" इति । नारदः,
"अखतन्त्राः प्रजाः सर्वाः खतन्त्रः पृथिवीपतिः ।
अखतन्त्रः स्मृतः शिव्य प्राचार्य तु स्वतन्त्रता" इति । प्रचाखतन्त्रकृतव्यवहारनिवर्त्तनं स्वतन्त्रानुमत्यभावविषयं वेदितव्यम् । तथाच नारदः,
"एतान्येव प्रमाणनि भर्ता यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः ॥
तत्र दामकृतं कायं न कृतं परिचक्षते । * इत्यमेव पाठः सर्वत्र | मम तु, वादान्तरेण,-इति पाठः प्रतिभाति ।
For Private And Personal Use Only