________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
"मत्तोन्मत्तार्तव्यमनिबालेन स्थविरेण वा ।
असंबद्धकृतश्चैव व्यवहारो न सिध्यति" इति । नारदोऽपि,
"पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः ।
असंबद्धो भवेद्वादो धर्मविनिरुदाहृतः" इति । हारीतोऽपि,
"राज्ञा विवर्जितो यस्तु स्वयं पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतौनां तथैवच ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्व व्यवहाराः प्रकीर्तिताः” इति । खवाक्यजितस्य तु न पुनाय इत्याह नारदः,"माक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
खवाचैव जितानान्तु नोकः पौनर्भवो विधिः" इति । अन्यानपि निवर्त्तनीयव्यवहारानाह मनुः,
"योगाधमनविक्रौतं योगदानप्रतिग्रहम् ।
यत्र वाऽप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत्” इति । परकीयधनस्यात्मीयत्वहेत्वभावे याचितकादिना प्राप्तियोगः । श्राधमनमाधिः। योगे श्राधमनं योगाधमनम् । एवं क्रौतमित्यत्रापि योज्यम् । यमोऽपि,
“बलाद्दत्तं बलामुक्तं बलाञ्चापि विलेखितम् ।
मर्वान् बलकृतानन् निवांनाह वै मनुः” इति । कात्यायनोऽपि,
For Private And Personal Use Only