________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पशापामाधवः।
"ब्राह्मणस्यापराधे तु चतुर्वव विधीयते । गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥
इतरेषान्तु वर्णानामाङ्कनं नात्र कारयेत्'-दति । न केवलं सभ्यादौनामेव दण्डः, किन्तु जयिनोऽपौत्याह रहस्पतिः,
"निश्चित्य बहुभिः मा ब्राह्मणै: शास्त्रपारगैः ।
दण्डयेज्जयिना माकं पूर्वसभ्यांस्तु दोषिणः''-दति । याज्ञवल्क्योऽपि,
"दर्दृष्टांस्तु पुनदृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादादिगुणं दमम्"-दति । जयलोभादिना व्यवहारस्य अन्यथा करणे जयिसहिताः सभ्याः प्रत्येकं विवादपराजयनिमित्तादर्शनात् द्विगुणं दण्ड्याः । यदा पुनः माक्षिणो दोषेण व्यवहारस्थान्यथात्वं, तदा माक्षिणएव दण्ड्या न मभ्यादय इत्यर्थः । यः पुनाथतो निर्णीतमपि व्यवहारं मौट्यादधर्म इति मन्यते, तम्प्रत्याह नारदः.
"तौरितं चानुशिष्टञ्च यो मन्येत विधर्मवित् । दिगुणं दण्डमास्थाय तत्काय पुनरुद्धरेत्” इति । वसिष्ठोऽपि,
“यो मन्येताजितोऽस्मौति न्यायेनापि पराजितः ।
* इत्यमेव पाठः सर्वत्र । ममतु, विवाद पराजयनिमित्तादर्थात, इति पाठः प्रतिभाति ।
For Private And Personal Use Only