________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७
पराशरमाधवः।
"पिताऽऽचार्यः सुहम्माता भार्या पुतः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलिताः खकात् ।।
त्विकपुरोहितामात्याः पुत्वाः सम्बन्धिबान्धवाः । धर्मादिचलिता दण्ड्या निर्वास्था राजभिः पुरात्” इति। तदेतच्छारौरार्थदण्डव्यतिरिक्तदण्डविषयम्,
"गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत्”-इति उक्तत्वात् । ब्राह्मणस्य बधदण्डो नैव कार्यः, किन्तु स वहिस्कार्यइत्याह कात्यायनः,
"न जातु ब्राह्मणं हन्यात् सर्वपापेश्ववस्थितम् ।
राष्ट्रान्वेनं वहिः कुर्यात् समग्रधनमक्षतम्" इति । यस्तु वहिस्कारं नागौकारोति, तस्य क्षत्रियादिवदेव दण्डइत्याह मएव,
"चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् ।
शारीरं धनसंयुक्त दण्डं धर्म प्रकल्पयेत्” इति । यत्तु गौतमेन । “न भारोरोब्राह्मणदण्डः” इति। तदङ्गभङ्गरूपदण्डनिषेधार्थम्।
“न त्वङ्गभेदं विप्रस्य प्रवदन्ति मनौषिणः” इति
हारौतेनोकत्वात् । यत्तु शङ्खनोक्नम् । “त्रयाणामपि वर्णानामपहारबधवन्धक्रिया, विवासनधिकरणं ब्राह्मणस्य”--बति। तदकिञ्चनब्राह्मणविषयम् । तथाच गौतमः । “कर्मवियोगविख्यापनविवामनासकरणाद्यवृत्तौ” इति । अत्तिनिर्धनः । धनदानासमर्थ प्रत्याह मनुः,
For Private And Personal Use Only