________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१५७
विवादिनी नरांश्चान्यान् धिग्धनाभ्यां च दण्डयेत्" इति । यत्तु गङ्खनो कम्। “अदण्ड्यौ मातापितरौ स्नातकपुरोहितौ परिब्राजकवानप्रस्थो जन्मकर्मश्रुतशोलशौचाचारवन्तश्च” इति । यदपि कात्यायनेन,
"प्राचार्य्यस्य पितुर्मातर्वान्धवानां तथैवच ।
एतेषामपराधे तु दण्डोनैव विधीयते"--दति । यञ्च गौतमेन। “षड्भिः परिहार्या राज्ञाऽबध्यश्चादण्ड्यश्चावहिःकार्यश्चापरिवाद्यश्चापरिहार्यश्च'"--इति। तदेतत्, “मएव बहुश्रुतो भवति। वेदवेदाङ्गविदाकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तहृत्तिश्चाष्टचत्वारिंशत्संस्कारैः संस्कृतः त्रिषु कर्मस्वभिरतः समयाचारेष्वपि निविष्ट:(१)'--इति प्रतिपादितबहुश्रुतविषयम् । यत्तु पित्रादौनां दण्डविधानं मनुसहस्पतिभ्यामुक्तम्,(१) पत्र, अरचत्वारिंशत् संस्कारी संस्कृतइत्यस्य, अभिरामगुणश्वत्वारिंशत् संस्कारैश्च संस्कृत इत्यर्थीबोध्यः। यस्मादनन्तरं गौतमएवाह । “गर्भाधान पुंसवनसीमन्तोन्नयनजातकम्मनामकरणानप्राशनं, चौलोपनयनं, चत्वारि वेदव्रतानि, स्वानं, सहधर्मचारिणीसंयोगः, पञ्चानां यज्ञानामनुष्ठानं, देवपिटमनुष्यब्रह्मणामेतेषाञ्चाएका, पाणश्राद्धश्रावण्याग्रहायणी चैयाश्वयजीति सप्त पाकयज्ञसंस्थाः, अग्न्याधेयमग्निहोत्रं दापर्णमासौ धाग्रयणं चातुर्मास्यानि निरूपशुबन्धः सौत्रामणौति सप्त हविर्यज्ञसंस्थाः, अग्निहोमोऽत्यमियोमउक थ्यः षोड़शी वाजपेयोऽतिरात्र धातोर्याम इति सप्त सोमसंस्थाः, इत्येते चत्वारिंशत् संस्काराः। अथाावात्मगुणाः, दया सव्र्वभूतेष क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यम स्पहेति । यस्यैते न चत्वारिंशत् संस्काराः न चायावात्मगुणा न स ब्रह्मणः सालोक्यं सायुज्यं घ गच्छति" इति। त्रिषु कर्मषु दानाध्ययनयागेषु । समयाचाराः यज्ञाध्ययनदानयाजनाध्यापनप्रतिग्रहाः।
For Private And Personal Use Only