________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधव।।
उपम्प मुदर जिका हस्तौ पादौ च पञ्चमम् ॥
चदर्नामा च कर्णौ च नरदेहस्तथैवष"-इति । विविध इत्युपलक्षणार्थम्,
"शिरसोमुण्डनं दण्डस्तथा निर्वामनं पुरात् ।
ललाटे चाभिमस्ताङ्कः प्रयाणं गर्दभेन च"-इति विध्यन्तरस्मृतत्वात् । याज्ञवल्क्यस्तु दण्डस्य चातुर्विध्यमाह,...
“वाग्दण्डस्त्वथ धिग्दण्डो धनदण्डो बधस्तथा ।
योज्या व्यम्ता: समाता वा अपराधवणादितः"-दति । वाग्दण्डः परुष शापवचनात्मकः । धिग्दण्डो धिगिति भर्त्सनम् । समस्तानां योजने क्रममाह मनुः, ---
“वाग्दण्डं प्रथमं कुर्यात् धिग्दण्डं तदनन्तरम् ।
हतीयं धनदण्डन्तु बधदण्डमतः परम्"--दति । व्यम्तानां योजने व्यवस्थामाह रहस्पतिः,--
"स्वल्पेऽपराधे वाग्दण्डो धिग्दण्डः पूर्वमाहसे । मध्यमे धनदण्डस्तु राजद्रोहे च बन्धनम् ॥ , निर्वामनं बधो वाऽपि कार्यमात्महितैषिणा ।
व्यस्ताः समस्ता एकस्मान् महापातककारिणाम्" इति । पुरुषतारतम्येन व्यवस्थामाह सएव,
"मित्रादिषु प्रयुचौत वाग्दण्डं धिक् तपखिनाम् । विवादिनो नरांश्चापि न्यायादर्थन दण्डयेत् ॥
गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्ड्येत् । एकस्या,-इति का । मम तु, एकस्मिन्, -- इति पाठः प्रतिभाति ।
For Private And Personal Use Only