SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पसपारमाधवः । धनदापनप्रकारे विशेषमाह* कात्यायनः, "राजा तु स्वामिने विप्रं सान्वेनेव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान् सम्पौद्य दापयेत् ॥ रिक्थिनः सुहृदं वाऽपि छलेनैव प्रदापयेत्” इति ॥ न केवलं स्वामिने धनदापनमात्रं, स्वयमपि दण्डं ग्टलौयादित्याह नारदः, "ऋणिकः मधनोयस्तु दौरात्म्यान्न प्रयच्छति । राज्ञा दापयितव्यः स्यात् ग्टहीत्वा तन्तुविंशकम्” इति ॥ एतदपि सम्प्रपन्नऋणिकविषयम् । विप्रतिपन्न-णिकविषये विष्णु-- राह। “उत्तमर्णश्चेद्राजानमियात् तद्विभावितोऽधमर्णदशमभागममं दण्डं दद्यात्। प्राप्तार्थश्चोत्तमा विंशतितमम्” इति । उत्तमर्णाधनदानं भृतित्वे दण्डत्वेो । यदा तु राज्ञः प्रियोऽधमोऽपलापबुध्या राजे पूर्व निवेदयति, तत्र दण्डविशेषमाह मनुः, “यः गोधयन् स्वच्छन्देन वेदयेद्धनिकं नृपे । म राज्ञर्णचतुर्भागं दाप्यस्तस्य च तद्धनम्" इति ॥ यत्तु तेनैवोक्रम्, “यो यावन्निहबीतार्थं मिथ्या वा झभिवादयेत् । तो नपेण ह्यधर्मज्ञौ दाप्यौ तट्विगुणं दमम्” इति ॥ * इत्यमेव पाठः सर्वत्र । मम तु, धनदाप ने प्रकारविशेघमाह, इति पाठः प्रतिभाति । : इत्यमेव पाठः सर्वत्र । मम तु, उत्तमर्णम्य धनदान तित्वेन न दत्वेन,--इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy