________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
१४७
धर्मावाहनादि हवनान्तं साधारणविधिना दिव्यस्य, पुरतः कृत्वा देवतास्नानोदकेन तण्डुलानाप्लुत्य प्रभातपर्यन्तं प्राड्विाकस्तथैव स्थापयेत् । तदनन्तरकर्त्तव्यं तेनैव दर्शितम्,
"प्रभाते कारिणो देयाः त्रिः कृत्वा प्रामुखं तथा । प्राविवाकसमाहृतस्तण्डुलान् भक्षयेच्छुचिः ॥ शुद्धिः स्थाच्छुक्लनिष्ठौवे विपरीते च दोषभाक् । शेणितं दृश्यते यस्य हनुस्तालु च शौर्यते ।। गात्रं च कम्पते यस्य तस्याशद्धिं विनिर्दिशेत्”- इति ॥
इति तण्डुलविधिः।
अथ तप्तमापविधिः। तत्र पितामहः,
"तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे शुभम् । कारयेदायसम्पात्रं तानं वा षोड़शाङ्गुलम् ॥
चतुरङ्गलखातन्तु मृण्मयं वाऽथ मण्डलम्" इति ॥ मण्डलं वर्तुलम् । एवंविधपात्रं ततैलाभ्यां पूरयेत् । तथाच
सएव,
“पूरयेत् ततैलाभ्यां विंशत्या वै पलैस्तु तत् । तैलं तमुपादाय तदनौ पाचयेच्छुचिः ॥ सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत्ततः । अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तामाषकम् ॥ कराग्रं यो न धुनुयात् विस्फोटो वा न जायते ॥
For Private And Personal Use Only