SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०६ www. kobatirth.org पराशर माधवः । रोगोऽग्निर्ज्ञातिमरणमर्थ संशोधनक्षयः ॥ प्रत्यात्मिकं भवेत्तस्य विद्यात्तस्य पराजयम् " - दूति ॥ एतानि द्वित्रिसप्ताहाद्यवधिवचनानि द्रव्यान्यत्व महत्त्वाभ्यामभियोगाल्पत्वमहत्त्वाभ्यां वा व्यवस्थापनीयानि । श्रवधेरूर्द्धं वैकृतदर्शने न पराजय इत्याह नारदः, - Acharya Shri Kailassagarsuri Gyanmandir “ऊझें तस्य द्विसप्ताहादैकृतं सुमहद्भवेत् । नाभियोज्यस्स विदुषा कृतकालव्यतिक्रमात् " - इति ॥ वृहस्पतिरपि - “सप्ताहाद्वा द्विसप्ताहाद्यस्य किञ्चित् न जायते । पुत्रदारधनानां वा स शुद्धः स्यान्न संशयः " - इति ॥ दूति कोशविधिः । अथ तण्डुलविधिः | तत्र पितामहः, - " तण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् । चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः” - इति ॥ चौर्य्यग्रहणमर्थविवादप्रदर्शनार्थम् । “ततञ्चार्थम्य तण्डुलाः" इति धनविवादे कात्यायनेन दर्शितत्वात् । पूर्वेद्युर्य्यत्कर्त्तव्यं, तदाह सएव“तण्डुलान् कारयेच्छुक्लान् शालेर्नान्यस्य कस्यचित् । मृणमये भाजने कृत्वा श्रादित्यस्याग्रतः शुचिः ॥ स्नानोदकेन मंमिश्रान् रात्रौ तत्रैव वामयेत् । श्रावाहनादि पूर्वन्तु कृत्वा रात्रौ विधानतः " - इति ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy