________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
sarvat देवानाह पितामहः, -
"भक्तोयो यस्य देवस्य पाययेत् तस्य तज्जलम् । समभावे तु देवानामादित्यस्य तु पाययेत् ॥ दुर्गायाः पाययेत् चोरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत्तोयं ब्राह्मणं तन्त्र पाययेत्”–इति ॥ स्वापनीयप्रदेशविशेषमाह सएव -
"दुर्गायाः पायये । च्छूलमादित्यस्य तु मण्डलम् । इतरेषान्तु देवानां स्नापयेदायुधानि तु - इति ॥ शुद्धिकालावधिमाह पितामह:, -
“त्रिरात्रात् सप्तरात्राद्वा द्विसप्ताहान्तथाऽपिवा । वैकृतं यत्र दृश्येत पापकृत्स तु मानवः ॥ तस्यैकस्य तु! सर्वस्य जनस्य यदि वा भवेत् । रोगोऽग्निर्ज्ञातिमरणं सैव तस्य विभावयेत्"-इति ॥
विष्णुः,
“यस्य पश्येत् द्विसप्ताहात् त्रिमप्ताहात् तथाऽपिवा । रोगोऽग्निर्ज्ञातिमरणं राजदण्डमथापिवा ॥ तमशुद्धं विजानीयाद्विशुद्धं तद्विपर्य्यये " - इति ॥ नारदोऽपि -
"सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वा पुनः ।
१ ४५
For Private And Personal Use Only
तच्च - इति श० ।
+ इत्यमेव पाठः सर्व्वत्र । ममतु, खापये, इति पाठ: प्रतिभाति ।
[:1 तस्यैकस्य न - इति यथान्तरीयः वाटः समीचीन' |
---
19