SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । शिरसि निधाय विषमभिमन्त्रयेत् । मन्त्रश्च पितामहेनोकः, "त्वं विष, ब्रह्मणा सृष्टं परीक्षार्थ दुरात्मनाम् । पापेषु दर्शयात्मानं शुद्धानाममृतम्भव ॥ मृत्युमूर्ते, विष, त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायस्वैनं नरं पापात्मत्येनास्थामृतम्भव" इति ॥ कर्ता तु विषमभिमन्व्य भक्षयेत् । मन्त्रश्च याज्ञवल्क्येनोकः, "त्वं विष, ब्रह्मणः पुत्र, सत्यधर्म व्यवस्थितः । त्रायस्खास्मादभौशापात् सत्येन भव मेऽमृतम् ।। एवमुक्का विषं शाङ्ग भक्षयेद्धिमशैलजम् । यस्य वेगैर्विना जौर्यत् शुद्धिं तस्य विनिर्दिशेत् ॥ वेगो रोमाञ्चमाद्योरचयति विषजः खेदवकोपशोधौ तस्याई तत्परौ द्वौ वपुषि च जनयेपूर्णभेदप्रवेपौ । यो वेगः पञ्चमोऽसौ नयनविवशतां कण्ठभङ्ग च हिक्का षष्ठो निश्वासमोहौ वितरति च स्मृति सप्तमो भक्षकस्य".-इति। शोध्यस्तु कुहकादिभ्यो रक्षणीय इत्याह पितामहः, "त्रिरात्रं पञ्चरात्रं स्यात्पुरुषैः खैरधिष्ठितम् । कुहकादिभयाद्राजा रक्षयेद्दिव्यकारिणम् ॥ श्रोषधौर्मन्त्रयोगांश्च मणौनथ विषापहान् । कर्तुः शरीरसंस्थांस्तु गढ़ोत्पत्रान् परीक्षयेत्”-इति ॥ शुद्धेः कालावधिमाह नारदः, “पञ्चतालगतं कालं निर्विकारो यदा भवेत् । तदा भवति माद्धस्ततः कुर्याञ्चिकित्सितम्"--- इति ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy