SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ पराशरमाधवः । कालश्च तेनैवोकः, "तोलपित्वेभिते काले देयं तद्धि हिमागमे। नापराले न मध्याहे न सन्ध्यायां तु धर्मवित्"-इति । कालान्तरे तूप्रमाणादल्पं देयम् । तदाह सएव, "वर्षे चतुर्यवा मात्रा यौमे पञ्चयवा स्मृता । हेमन्ते मा सप्तयवा शरद्यल्पा ततोऽपि हि"-इति ॥ विषञ्च तनुतं देयम् । तदाह सएव, "विषस्य पलषड्भागाभागो विंशतिमस्तु यः । तमष्टभागहीनन्तु शोध्ये दद्यात् तनुतम्”-इति ॥ पलं चात्र चतुःसुवर्णकम्। तस्य षष्ठो भागो दश माषाः, माषम्य दश यवाश्च भवन्ति । चियवत्वं च कृष्णलं, पञ्चकृष्णलको माषः । एको माषः पञ्चदशयवा भवन्ति । एवं दशानां माषाणां यवाः सार्द्धशतं भवन्ति । पूर्व च दश यवाः। एवं षष्ठ्यधिकशतं यवाः पलम्य षष्ठो भागः। तस्मादिशतितमो भागो अष्टयवाः। तस्याष्टमभागहीनः एकयवहौनः । तं सप्तयवं तनुतं दद्यात् । पतञ्च विषात् त्रिंश गुण ग्राह्यम् । तदाह नारदः,--- "प्रदद्यात्मोपवामाय देवब्राह्मणमन्निधौ। धूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम् ॥ दिजानां सनिधावेव दक्षिणाभिमुखे स्थिते । उद खः प्रामखो वा दद्याद्विप्रः समाहितः” इति । प्राड्विवाकः कृतोपवामो महेश्वरं मम्यूज्य तत्पुरतो विषं म्यापयित्वा धर्मादिपूजां हवनान्तां पूर्ववद्विधाय प्रतिज्ञापत्रं गोध्यम्य For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy