________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
"शिरोमाचन्तु दृश्येत म कर्ण नापि नासिका।
अमु प्रवेशने यस्य पद्धं तमपि निर्दिशेत्” इति विशेषस्मरणात् । कारणान्तरेणोन्मजने पुनरपि कर्त्तव्यम् । तदाह कात्यायनः,
“निमज्योत्प्लवते यस्तु दृष्टश्चेत् प्राणिभिर्नरः । पुनस्तन निमजेत्स दंशचिहविभावित:*"-इति ॥
इति जलविधिः।
अथ विषविधिः। तत्र प्रजापतिः। विषस्यापि प्रवक्ष्यामौति । विषं च वत्सनाभादि ग्राह्यम्।
"एङ्गिणो वत्मनाभस्य हिमजस्य विषस्य च” इति ॥ वान्याह सएव,
"चारितानि च जीर्णानि कृत्रिमाणि तथैवच ।
भूमिजानि च सर्वाणि विषाणि परिवर्जयेत्” इति ॥ मारदोऽपि,
"भष्टं च चारितं चैव भूमिजी मिश्रितं तथा । कालकूटमलाबुञ्च विषं यत्नेन वर्जयेत्” इति ॥
* निमज्जेत शशिचिङ्गविभावितः,-इति शा० । । + भूमिशातानि, इति शा. स.। + धूपितं,-इति का।
For Private And Personal Use Only