SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधयः। अयमर्थः । चिषु शरेषु मुक्केब्वेको बेगवान् मध्यशरपातस्थानङ्गवा तमादाय तचैव निष्ठति । अन्यस्तु पुरुषो वेगवान् गरमोक्षणस्थाने तोरणमूले तिष्ठति। एवं स्थितयोस्तृतीयस्यां करतालिकायां शोध्यो निमबति । तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यभरपातस्थानङ्गच्छति। शरणाही च तस्मिन् प्राप्ते तदुत्तरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति, तदा शुद्धो भवतीति । तदेव स्पष्टीकृतं पितामहेन, "गन्नुश्चापि च कर्तुश्च समंगमनमज्जनम् । गच्छेत्तोरणमूलात्तु लक्ष्यस्थानं जवी नरः ॥ तस्मिन्गते द्वितीयोऽपि वेगादादाय मायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गतः ॥ आगतस्तु परग्राही न पश्यति यदा जले । अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत्” इति ॥ अविनोश्च नरयोर्निभरणं कृतं नारदेन, "पश्चाशतो धावकानां यो स्यातामधिको जवे । तौ च तत्र नियोक्रव्यौ शरानयनकारणात्” इति । निमग्रस्य स्थानान्तरगमने अशुद्धिमाह पितामहः, "अन्यस्थानविशुद्धिः* स्यादेकाङ्गस्यापि दर्शनात् । स्थानादन्यत्र गमनाद्यस्मिन् पूर्वं निवेशितः” इति ॥ एकाङ्गदर्शनादिति कर्णद्यभिप्रयेण, * इत्यमेव पाठः सर्वत्र । ममतु, अन्यस्थो न वि डः, --इति पाठः पतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy