SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहार काण्डम् । १.३९ श्रागतं प्रामुखं कृत्वा तोयमध्ये च कारिणम् । ततस्वावाहयेद्देवान् सलिलं चानुमन्त्रयेत्”–दति ॥ तत्र चादौ वरुणपूजा कर्त्तव्या । तदाह नारदः, “गन्धमाल्यैः सुरभिभिर्मधुरैश्च तादिभिः । वरुणय प्रकुर्वीत पूजामादौ समाहितः” इति ।। एवं वरुणपूजाकृत्वा धर्मावाहनादिसकलदेवतापूजां होम समन्त्रकं प्रतिज्ञापत्रशिरोनिवेशनान्तं च कृत्वा प्राविवाकोजलाभिमन्त्रणकुर्य्यात् । मन्त्रश्च विष्णुना दर्शितः, “त्वमन्तः सर्वभूतानामन्तश्चरसि माक्षिवत् । त्वमेषां भो विजानोषे न विदर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषस्वयि मज्जति । तदेनं मंशयात्तस्मात् धर्मतस्त्रातुमर्हसि” इति ॥ पितामहेनापि, "तोय, त्वं प्राणिनां प्राण: सृष्टेराद्यन्तु निर्मितम् । शुद्धेस्त्वं कारणं प्रोकं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे''-दति । गोध्यस्येतिकर्तव्यतामाह याज्ञवल्क्यः, “सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य तम् । नाभिदध्नोदकस्थस्य ग्टहोवोरुजलं वित्'-दति ॥ मदनन्तरकर्त्तव्यमाह मएव, "समकालमिषु मुक्तमानौयान्यो जवो नरः । गते तस्मिन् निमनाङ्गं पश्येचेछुद्धिरात्मनः"-दति ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy