________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
"प्रज्वालेनाभिशस्तश्चेत् स्थानादन्यत्र दह्यते।
अदग्धन्तं विदुर्दैवाः तस्य भूयो न योजयेत्” इति । शद्धिकालावधिमाह पितामहः,
“ततस्तद्धस्तयोः प्रास्येद्यहोवाऽन्यैर्यवैर्यवान् । निर्विशंकेन तेषां तु हस्ताभ्यां मर्दने छते ॥ निर्विकारे दिनस्यान्ते शद्धिं तस्य विनिर्दिोत्”-रति।
इत्यप्रिविधिः ।
-
अथ अलविधिः। तत्र पितामहः,
"तोयस्यातः प्रवक्ष्यामि विधि धर्म सनातनम् । मण्डलं धूपदीपाभ्यां पूजयेत् तदिचक्षण: ॥ शरान् संपूजयेत् भक्त्या वैणवञ्च धनुस्तथा ।
मङ्गलैः पुष्पधूपैश्च ततः कर्म समाचरेत्” इति । धनुषः प्रमाणमाह नारदः,
"क्रूरं धनुः मतशतं मध्यमं षट्शतं स्मृतम् । मन्दं पञ्चशतं ज्ञेयमेष ज्ञेयो धनुर्विधिः ॥ मध्यमेन तु चापेन प्रक्षिपेच शरत्रयम् । हस्तानाञ्च ते मार्द्ध लक्ष्यं कृत्वा विचक्षणः ॥
न्यूनाधिके तु दोष: स्यात् दिपतः सायकांस्तथा"-इति ॥ प्रचाङ्गुलिमङ्ख्या विवक्षिता। शरा अनायसाग्राः कर्तव्याः ।
"मरैरनायमात्रैश्च प्रकुर्वीत विशद्धये ।
For Private And Personal Use Only