________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
पराशरमाधवः ।
"पिप्पलाज्जायते वहिः पिप्पलो वृक्षराट् स्मृतः ।
अतस्तस्य तु पत्राणि हस्तयोर्निक्षिपेत् बुधः” इति । तदनन्तरं कर्त्तव्यमाह मएव,
"ततस्तं समुपादाय राजा धर्मपरायणः । मन्दंगेन नियुकोऽथ हस्तयोस्तत्र निक्षिपेत् ॥ त्वरमाणो न गच्छेत स्वस्थो गच्छेच्छनैः शनैः । न मण्डलमतिकामेनान्तरा स्थापयेत् पदम् ॥ अष्टमं मण्डलं गत्वा नवमे स्थापयेत् बुधः । भयार्त्तः पातयेद्यस्तु व्रणञ्च न विभाव्यते ॥
पुनरारोपयेल्लोहं स्थितिरेषा दृढौकता" इति । यदा दग्धसन्देहः तदा आह नारदः,
"यदा तु न विभाव्यते दग्धाविति करौ तदा । बौहीनतिप्रयत्नेन सप्तवारांस्तु मर्दयेत् । मर्दितो यदि नो दग्धः सभ्यैरेव विनिश्चितः । गोप्यः सुद्धस्तु तत्सत्ये दग्धोदण्ड्यो यथाक्रमम् ॥ पूर्वदृष्टेषु चिन्हेषु ततोऽन्यत्रापि लक्षयेत् । मण्डलं रक्कमकाणं यत्र स्याद्वाऽनिमम्भवम् ॥
यो निरुद्धः स विज्ञेयः सत्यधर्मव्यवस्थितः" इति। यत्त त्रामात् प्रञ्चालेन हस्ताभ्यामन्यत्र दह्येत, तथाप्यपद्धोन भवति । तदाह कात्यायनः,
- यस्त,-इति का. म. । मम तु, यदि तु. --~-- ति पाठः प्रतिभाति ।
For Private And Personal Use Only