________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
हस्तचतेषु सर्वेषु कुर्य्यामपदानि तु" । श्रग्निधारणतः पूर्वमेतद्विज्ञानार्थं तस्य शोध्यस्य करद्वयस्थितस्य श्रवणादिस्थानेषु 'अलक्तकादिरसेन हंसपदानि कुर्य्यादित्यर्थः । ततः कर्त्तव्यमाह याज्ञवल्क्यः,
" करौ विमृदितीही लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पर्णाणि तावत् सूत्रेण वेष्टयेत्” - इति । पर्णाणि च समानि -
:
“पत्रैरश्च लिमापूर्य्य अश्वत्थः सप्तभिः समेः " - इति स्मरणात् ! वेष्टनसूत्राणि च सितानि कर्त्तव्यानि ।
“बेष्टयेत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः " - इति नारदस्मरणात् । तथा, सप्त शमीपत्राणि सप्तैव दूर्वादत्राणि दध्यक्तांश्चाचतानपि श्रश्वत्थपत्राणामुपरि विन्यसेत् । तदुक्तं स्मृत्य - न्तरे,—
“सप्त पिप्पलपत्राणि अक्षतान् सुमनोदधि । हस्तयोर्निचिपेत्तत्र सूत्रेणावेष्टनं तथा" - इति ।
१३५
यत्तु स्मृत्यन्तरम्, -
"श्रयस्तप्तन्त पाणिभ्यामर्कपचैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे " - इति । तदश्वत्थपत्रालाभविषयम् । तोऽश्वत्थपत्राणां
For Private And Personal Use Only
मुख्यत्वमाह
पितामहः, -
* इत्यमेव पाठः सर्व्वत्र । मम तु करद्वयस्थितेषु वणादिस्थानेषु --- इति पाठः प्रतिभाति ।