SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ पराशरमाधवः । हतौयतापे ताप्यन्तं ब्रयात्मत्यपुरस्कृतम्" इति । लोहशद्ध्यर्थमुचितजले निक्षिप्य पुनः सन्ताप्योदके निक्षिप्य पुनः सन्तापनं हतौयस्तापः । तस्मिन् तापे वर्त्तमाने धर्मावाहनादिमनमण्डपं पूर्बोक्रविधि विधाय पिण्डस्थमनिमेभिर्मन्त्रैरभिमन्त्रयेत् । मन्त्राश्च नारदेन दर्शिताः, "त्वमने, वेदाश्चत्वारः त्वञ्च यज्ञेषु हयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थो हि भूतानां यथा वेत्मि शुभाशुभम् । पापं पुनासि वै यस्मात् तस्मात्यावक उसे ॥ पापेषु दर्शयात्मानमर्चिमान् भव पावक । अथवा शुद्धभावेषु गौतो भव हुताशन ॥ त्वमग्ने, सर्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेव देव, जानौषे न विदुर्यानि मानुषाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं मंशयादस्माद्धर्मतस्त्रातुमर्हमि"-इति । तत्रादावेव ब्रीहिविमर्दनेन शोध्यस्य करौ लक्षयेत्। तदाह विष्णुः । “करौ विदितौ बौहिभिस्तस्थादावेव लक्षयेत्” इति । लक्षयेदित्यस्यार्थी नारदेन विवृतः, "लक्षयेत्तस्य चिहानि हस्तयोरुभयोरपि । प्राकृतानीव गूढानि सत्रणान्यव्रणानि च ॥ * इत्यमेव पाठः सर्वत्र । मम तु, लोहमुद्धयोचितजले,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy