SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १२३ स्थित्वैकस्मिन् यतोऽन्यानि* ब्रजेत्मप्त वजिह्मगः ।। असंभ्रान्तः शनैर्गच्छेदक्रुद्धः सोऽष्टमं प्रति। न पातयेत्तामप्राप्य या भूमिः परिकल्पिता ॥ न मण्डसमतिक्रामेन चार्वागर्पयेत्पदम् । मण्डलञ्चाष्टमं गत्वा ततोऽग्निं विसृजेबरः” इति । अनिविसर्गच नवमे मण्डले कार्यः । तदाह पितामहः, "अष्टम मण्डलं गत्वा नवमे निक्षिपेत्ततः" इति । अथ पिण्डपरिमाणमाह पितामहः, "अममं तं समद्धृत्वा पञ्चाशत्पलिकं समम् । पिण्डन्तु तापयेदमावष्टाङ्गुलमयोमयम्" इति। प्रथममण्डलाद्दक्षिणतोऽग्निं प्रतिष्ठाप्याग्नये पवमानायेति मन्त्रेणाटोत्तरशतवारं प्राड्विवाको जुहुयात्। “अनौ तमष्टोत्तरं शतम्”इति स्मरणात् । तस्मिन्नमावयःपिण्डं लोहकारेण तापयेत् । तदाह नारदः, "जात्यैव लोहकारो यः कुशलश्चाग्निकर्मणि । दृष्टप्रयोगश्चान्यत्र तेनायोऽनौ तु दापयेत् ॥ अग्निवर्णमयःपिण्डं सस्फुलिङ्ग सुरचितम् । पञ्चाशत्पलिकं भूयः कारयित्वा शुचिर्दिजैः ॥ * इत्यमेव पाठः सर्वत्र । मम तु, ततोऽन्यानि,-इति पाठः प्रति. भाति । । निक्षिपेलधः,-इति का । . For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy