________________
Shri Mahavir Jain Aradhana Kendra
१३२
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयं वायुदेवत्यं चतुर्थं यमदेवतम् ॥ पञ्चमं त्विन्द्रदेवत्यं षष्ठं कौबेरमुच्यते" । सप्तमं सोमदेवत्यमष्टमं सर्वदैवतम् ॥ पुरस्तान्नवमं यत्तु तन्महद्देवतं विदुः । गोमयेन कृतानि स्युरद्भिः पर्य्युचितानि च ॥ द्वाचिंशदङ्गुलान्याहुर्मण्डलान्मण्डलान्तरम् (९) । श्रष्टभिर्मण्डलेरेवमङ्गलानां शतद्वयम् ॥ षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना ।
मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिता: " - इति । तत्र, नवमं मण्डलं परिमिताङ्गुलप्रमाणकं तदिहाय श्रष्टभि र्मण्डलैरष्टभिश्चान्तरालैः प्रत्यकं षोडशाङ्गुलप्रमाणकैरङ्गुलानां षट्पञ्चाशदधिकशतद्वयं सम्पद्यते । श्रङ्गुलप्रमाणञ्च स्मृत्यन्तरेऽभिहितम्, -
“तिर्ध्वग्यवोदराषष्टी ऊर्द्धा वा ब्रौदयस्त्रयः । प्रमाणमङ्गुलस्योकं वितस्तिर्दाशाङ्गुला ” - इति ।
अत्र च गम्यानि सप्तैव मण्डलानि । “स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत्” – इति याज्ञवल्क्यस्मरणात् । नारदोऽपि - “हस्ताभ्यां तं सहादाय प्राड्विवाकसमिरीतः ।
(१) च्छात्र, मण्डलपरिमाणं षोडशाङ्गुलं मण्डलयोरन्तरपरिमाणमपितावदेव । तथाच प्रथममण्डलमवधीकृत्य द्वितीयमण्डलपर्यन्तं द्वात्रिंशदङ्गुलपरिमाणं सम्पद्यते इति बोध्यम् ।
For Private And Personal Use Only