SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । ममोऽपि न विशुद्धः स्यादेषा शद्धिरुदाहृता ॥ शिरश्छेदेऽचभङ्गे च भूयश्वारोपयेबरम् । एवं निःसंशयज्ञानात्ततो भवति निर्णयः” । शुद्धेस्तु संशयो नारदेन प्रपञ्चितः, "तुलाशिरोभ्यामुग्रान्तं विषमं न्यस्तलक्षणम् ॥ यदा वा सुप्रणुन्ना वा चलेत्पूर्वमधोऽपिवा । निर्मुकः सहसा वाऽपि तदा नैकतरं वदेत्”-इति ॥ अयमर्थः । यदा तुलाग्रभागौ तिर्यक् चलितो, यदा वा समताज्ञानार्थं न्यस्तमुदकादि चलितं, यदाच वायुना प्रेरिता तुला ऊलमधश्च कम्पते, यदा च तुलाधारकेण हठात् प्रमुच्यते, तदा जयं पराजयं वा न विनिश्चेतुं शक्नुयादिति। राज्ञः कर्त्तव्यमाह पितामहः, “मद्भिः परिवृतो राजा शुद्धं रूढं प्रपूजयेत् । ऋत्विक्पुरोहिताचार्यान् दक्षिणभिश्च तोषयेत् ॥ एवं कारयिता राजा भुक्ता भोगान् मनोरमान् । महतौं कोर्तिमाप्नोति ब्रह्मभूयाय कन्यते ॥ इति धटविधिः । अथानिविधिः। "अनेविधिं प्रवक्ष्यामि यथावच्छास्त्रचोदितम् । कारयेन्मण्डलान्यष्टौ पुरस्तात्रवमं तथा ॥ आग्नेयं मण्डलं चायं द्वितीयं दारुणं तथा । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy