________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
मृण्मयौ सूत्रसम्बद्धौ धटमस्तकचुम्बिनौ”--इति ॥ नारदः,--
"शिक्यद्वयं समासाद्य पार्श्वयोरुभयोरपि । एकत्र शिक्ये पुरुषमन्यत्र लुलयेच्छिलाम् ॥, धारयेदुत्तरे पार्श्व पुरुषं दक्षिणे शिलाम् ।
पौठकं पुरतस्तस्मिनिष्टकां* पांशलोष्टकम्”- इति ।। पितामहः,
“एकस्मिन् रोपयेन्मय॑मन्यस्मिन् मृत्तिका शुभाम् ।
इष्टकामस्मपाषाणकपालास्थिविवर्जिते” इति ॥ अत्र मृत्तिकेष्टकागावपांशूनां विकल्पः । समतानिरीक्षणाथें राजा तदिदो नियोक्रव्याः । तथाच पितामहः,
“परीक्षका नियोकव्यास्तुलामानविशारदाः । वणिजो हेमकाराश्च कांस्यकारास्तथैवच ॥ कार्य परीक्षकैर्नित्यमवलम्बसमोधरः । उदकञ्च प्रदातव्यं घटस्योपरि पण्डितैः ।। यस्मिन्न स्रवते तोयं स विज्ञेयः समोधटः । तोलयित्वा नरं पूर्व पश्चात्तमवतारयेत् ॥ धटन्तु कारयेत् नित्यं पताकाध्वजगोभितम् । तत आवाहयेत् देवान् विधानेन च मन्त्र वित् ।। वाद्येन वूर्यघोषेण गन्धमाल्यानुलेपनैः” इति । पत्र विशेषमाह नारदः,* पिटकं पूरये त्तस्मिनिटका,-ति का० ।
For Private And Personal Use Only