________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
पराशरमाधवः।
घटनिर्माणप्रकारमाह पितामहः,
"चतुर्हस्ता तुला कार्या पादौ कार्यों तथाविधौ । अन्तरन्तु तयोईस्तौ न चेदध्यर्द्धमेवच ॥ च्छिला तु याज्ञिकं वृक्ष हेतुवन्मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यस्तुला का• मनीषिभिः"--इति ॥ नारदः,
"खादिरौं कारयेत् तत्र निर्बणां शक्लवर्जिताम् । शिंशपान्तदभावे तु मालं वा कोटरैर्विना ॥ अर्जुनस्तिलकोऽशोकः शमीयो रक्तचन्दनः । एवंविधानि काष्ठानि धटार्थ परिकल्पयेत् ॥ ऋज्वौ धटतुला कार्या खादिरौ तेन्दुको तथा ।
चतुरस्त्रस्तिभिः स्थानैर्धटः कर्कटकादिभिः" इति । पितामहः,
"कर्कटानि च देयानि त्रिषु स्थानेषु यत्नतः ।
हस्तद्वयं निखेयन्तु पादयोरुभयोरपि”–दति ॥ व्यासः,
"हस्तद्वयं निखेयन्तु प्रोक्तं मुण्डकयोस्तयोः ।
षड्स्तन्तु तयोः प्रोक्तं प्रमाणं परिमाणतः” इति ॥ पितामहोऽपि,
"तोरणे तु तयोः कार्य पार्श्वयोरुभयोरपि । धटादच्चतरे स्यातां नित्यं दशभिरङ्गुलैः ॥ अवलम्बा तु कर्तव्यौ तोरणाभ्याभधोमुखौ ।
For Private And Personal Use Only