________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१२५
"श्रादित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापोहृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम्" ॥ अयश्च विधिः सर्वदिव्यसाधारण: ।
“इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत्”-इति पितामहस्मरणात् । प्रयोगावसाने दक्षिणं दद्यात् । तथा च सएव,"ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश्च तोषयेत्”-इति ।
इति दिव्यमालका।
अथ धटविधिः। तत्र पितामहः, -
"प्रामुखो निश्चलः कार्य्यः शुचौ देशे धटः सदा ।
इन्द्रस्थाने सभायां वा राजदारे चतुष्पथे”-इति । नारदोऽपि,
"सभाराजग्रहदारसुरायतनचत्वरे"-इति । पितामहः,
"विशालामुच्छितां शुधां धटशालान्तु कारयेत् । यत्रस्था नोपहन्येत श्वभिश्चण्डालवायसैः ॥ कवाटवौजसंयुकां परिचारकरचिताम् । पानौयादिममायुकामशन्यां कारयेन्नृपः” इति ॥
For Private And Personal Use Only