SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ परापारमाधवः । प्राज्येन हविषा चैव समिद्भिहीमसाधनैः ॥ सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत्” इति ॥ प्रणवादिकां गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयात् । "अनुक्कसंख्या यत्र स्यात् शतमष्टोत्तरं स्मृतम्” इति । एतत् सर्वमुपवासादिपूर्वकं कर्तव्यम् । तदाह नारदः, "अहोरात्रोषितः स्नात्वा भावामा स मानवः । पूर्वाद सर्वदिव्यानां प्रदानमनुकौर्तितम्” इति ॥ याज्ञवल्क्योऽपि, "सचेलस्नातमाय सूर्यादयउपोषितम् । कारयेत् सर्वदिव्यानि देवब्राह्मणसन्निधौ” इति । पितामहोऽपि, "त्रिरात्रोपषितायैव एकरात्रोषिताय च । नित्यं देयानि दिव्यानि शुचये साईवाससे"-दूति ॥ अयञ्चोपवासविकल्पोबलवदबलवद्विषयतया द्रष्टव्यः । होमानन्तरं पितामहः, "यक्षार्थमभियुक्तः* स्थात् लिखितं तन्तु पत्रके । ___ मन्त्रेणानेन सहितं तत्कार्यञ्च शिरोगतम्” इति ॥ मन्त्रश्च, * इस्थमेव पाठः सर्वत्र । यदर्थमभियुक्तः,-इति तु पाठः समीचीनः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy