________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
देहनाशमनुप्राप्तस्तस्याग्निर्वसते गृहे। प्रेताग्निहोत्रसंस्कारः श्रूयतामृषिपुङ्गवाः॥१४॥ कृष्णाजिनं समास्तोर्य कुशैस्तु पुरुषाकृतिम् । षट्शतानि शतं चैव पलाशानाञ्च द्वन्ततः ॥१५॥ चत्वारिंशत् शिरे दद्याद्दश कण्ठे तु विन्यसेत् । बाहुभ्यां शतकं दद्यादङ्गुलीषु दशैव तु ॥१६॥ शतन्तु जघने दद्याद् द्दिशतं तूदरे तथा। दद्यादष्टौ दृषणयाः पञ्च मेढ़े तु विन्यसेत् ॥१७॥ एकविंशतिमूरूभ्यां दिशतं जानुजङ्घयोः। पादाङ्गुष्ठेषु षडू दद्याद् यज्ञपाचं ततान्यसेत् ॥१८॥ शम्यां शिश्ने विनिःक्षिप्य अरणों मुष्कयोरपि । जुई च दक्षिणे हस्ते वामे तूपधृतं न्यसेत् ॥ १॥ पृष्ठे तूलूखलं दद्यात् पृष्टे च मुसलं न्यसेत् ॥ उरसि क्षिप्य दृषदं तण्डलाज्यतिलान्मुखे ॥२०॥ श्रोत्रे च प्रोक्षणों दद्यादाज्यस्थालीन्तु चक्षुषोः । कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ॥२१॥ अग्निहोत्रोपकरणमशेषं तत्र निक्षिपेत् । असा स्वर्गाय लोकाय स्वाहेत्येकाहुतिं न्यसेत् ॥२२॥ दद्यात् पुत्रोऽथवा भ्राताऽप्यन्योवाऽपि च बान्धवः ॥ यथा दहनसंस्कारस्तथा कार्य विचक्षणैः ॥२३॥
For Private And Personal Use Only