________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२९
परापारमाधवः।
महितो लोकपालैश्च वस्खादित्यमरुद्गणैः ॥
आवाह्य तु घटे धर्म पश्चादङ्गानि विन्यसेत्” । घटग्रहणं सर्वदिव्योपलक्षणार्थम् । एषां धर्माणां सर्वदिव्यसाधारणलात् । अङ्गविन्यामप्रकारस्तेनैव दर्शितः,
“इन्द्रं पूर्व तु संस्थाप्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरञ्चोत्तरे तथा ॥ अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत् । इन्द्रः पीतो यमः श्यामो वरुण: स्फटिकप्रभः ॥ कुबेरस्तु सुवर्णाभस्वग्निश्चार्यसुवर्णभाः । तत्रैव निम्र तिः श्यामो वायुस्तानः प्रशस्यते ॥ ईशानस्तु भवेद्रक्तः एवं ध्यायेत् क्रमादिभान् । इन्द्रस्य दक्षिणे पार्श्व वसूनावाइयेडुधः ॥ धर्मा* ध्रुवस्तथा व्योम प्रापश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ देवेशेशानयोर्मध्ये श्रादित्यानां यथाक्रमम् । धाताऽर्यमा च मित्रश्च वरुणेशौ भगस्तथा ॥ दन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजयो यो जघन्यजः ॥ इत्येते द्वादशादित्या नामभिः परिकीर्तिताः । अग्नेः पश्चिमभागे तु रुद्राणामयनं विदः ॥ वीरभद्रश्च शम्भुश्च गिरौशश्च महायशाः ।
* धरो,--इति का
For Private And Personal Use Only