________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
न विषं ब्राह्मणे दद्यात् विषं वर्णान्तरे स्मृतम् । कोणतण्डुलधर्मस्तु धर्मसम्भवमेवच ॥
पुत्रदारादिशपथान् सर्ववणे प्रयोजयेत्”-इति ॥ दिव्यानां कालविशेषमाह पितामहः,
"चैत्रो मार्गशिरश्चैव वैशाखश्च तथैवच । एते साधारण मामा दिव्यानामविरोधिनः ॥ घटः सार्वत्रिकः प्रोक्तो वाते वाति विवर्जयेत् । तथा शिशिरहेमन्ते वर्षाखपिच दापयेत् ।
गौमे मलिलमित्युक्तं हिमकाले तु वर्जयेत्” इति ॥ नारदोऽपि,
"अमिः शिशिरहेमन्ते वर्षासु परिकीर्तितः । शरद्यौमे तु मलिलं हेमन्त शिशिरे विषम् ॥ न शौते कोशमिद्धिः स्यात् नोष्णकालेऽग्निशोधनम् ।
न प्रादृषि विषं दद्यात् प्रवाते न तुलां नृप" - इति ॥ विष्णुरपि । “स्खौब्राह्मणविकलासमर्थरोगिणां तुला देया । मा च न वाति वायौ न नास्तिकस्य । अमद्धर्मलोहकारिणमनिर्दयः । न गरौभयोश्च । न कुष्टिपैत्तिकब्राह्मणानां विषं देयम् । प्रावृषि न। लेभव्याध्यर्दितानां भौरूण श्वासकाशिनामम्बुजौविनां न चोदकम्। हेमन्तशिशिरयोश्च न। नास्तिकेभ्यः कोशो न देयः। कुष्ठव्याधिमारकोपदृष्टेश्च”-इति । पितामहोऽपि,
"पूर्वाऽग्निपरीक्षा स्यात् पूर्वा च धटो भवेत्। मध्याहे तु जलं देयं धर्मतत्त्वमभौमता ॥
For Private And Personal Use Only