SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागरम् । २१७ मएव चान्द्रिका प्रोका ताश्चतस्रस्तु धानकाः ॥ तवादश सुवर्णस्तु दौनारायः सएव तु"-इति। । याज्ञवल्क्यस्तु पले विकल्पमाह, “पलं सुवर्णाः चत्वारः पञ्च वाऽपि प्रकौर्त्तितम्" इति । राजतेऽपि कार्षापणोऽस्तोत्याह नारदः, “कार्षापणो दक्षिणस्यां दिशि रौप्ये प्रवर्तते” इति । व्यासस्तु सौवर्णनिष्कस्य प्रमाणमाह, “पलान्यष्टौ सुवर्ण स्युस्ते सुवर्णश्चतुर्दश । एतत् निष्कप्रमाणन्तु व्यासेन परिकीर्तितम्" इति । र मनाप्रमाणात् प्रमाणन्तरमाषादि दिव्यदण्डव्यतिरिक्त विषये देशव्यवहाराविरोधेन ग्राह्यम् । तथा च वृहस्पतिः, "संख्या रस्मिरजोभूत्वा* मनुना समुदाहृता । कार्षापणान्ता मा दिव्ये नियोज्या विनये तथा ॥ कार्षाप णसहस्रन्त दण्ड उत्तमसाहसः। तदद्धी मध्यमः प्रोक्रः तदर्द्धमधमः स्मृतः” इति ॥ जातिभेदेन दिव्यव्यवस्थामाह नारदः, "ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥ साधारण: समस्तानां कोश: प्रोको मनौषिभिः" इति ॥ अनित्या चेयं व्यवस्था । * इत्यमेव पाठः सर्वत्र । मम तु, संज्ञा रमिरजोभूर्या,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy