SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १११ प्रमाणहीने पादे तु न दोषो दैविकी क्रिया" इति। दिव्यमुद्दिशति वृहस्पतिः, “घटोऽग्निरुदकं चैव विष कोशश्च पञ्चमः । षष्ठश्च तण्डुलः प्रोक्तः सप्तमस्तप्तमाषकः ॥ अष्टमं फालमित्युक्तं नवमं धर्माकं तथा । दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयम्भुवा ।। यस्माद्देवैः प्रयुक्तानि दुष्करार्थे महात्मनः” इति । शङ्खः। “तत्र दिव्यं नाम तुलाधारणं विषाशनं कोशोऽग्निप्रवेगोलोहधारणमिष्टापूर्तप्रदानमन्यांश्च शपथान् कारयेत्” इति । शपथश्च वृहस्पतिना दर्शितः, "सत्यं वाहनशस्त्राणि गोवौजकनकानि च । देवब्राह्मणपादांश्च पुत्रदारशिरांसि च । एते च शपथाः प्रोक्ता अल्पार्थे सुकराः सदा"-दति । शंखलिखितावपि। “इष्टापूर्तप्रदानमन्यांश्च शपथान् कारयेत्”इति । उद्दिष्टानां दिव्यानां मध्ये तुलादीनि महाभियोगे प्रयोतव्यानि। तथाच याज्ञवल्क्यः,-- "तुलाऽग्न्यापो विषं कोशो दिव्यानौह विशद्धये । महाभियोगेष्वेतानि शौर्षकस्थेऽभियोक्तरि"-इति ॥ एषामग्निशब्देन ततायःपिण्डतप्तमाषतप्ततण्डुलाश्च ग्टह्यन्ते । "न भुक्तो कोशमल्येऽपि दापयेत्”-दूति खच्याभियोगे कोशश्च । * विषाकर्षण-इति शा० स० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy