________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
धेनुरुप्रोवहदृद्धो यश्च वश्यः प्रभुज्यते”-इति । याचितेवष्यपवादमाह व्यामः,
"याच्याधर्माण पडतं श्रोत्रिय राजपूरुषैः । सुद्भिर्बान्धवैचापि न तद्भागेन होयते” इति । दृहस्पतिरपि,
"अनागमं तु यमुक्कं ग्राहक्षेचापणदिकम् ।
सुहबन्धुसकुल्यैश्च न तद्भागेन होयते”-इति । हानौ कारणमाह सएव,
"धर्मक्षयः श्रोत्रिये स्थादभयं राजपूरुषे ।
स्नेहः सुहद्दान्धवेषु भुक्तान्येतानि होयते” इति । कचिदेकदेशभोगेऽनुपमुक्त प्रत्येकदेशान्तरेषु* प्रमाणम् । तदाह वृहस्पतिः,
"यद्यकशासने ग्रामक्षेत्रारामाश्च लेखिताः। एकदेशोपभोगेऽपि सर्वे भुक्रा भवन्ति ते"-इति ।
इति भुक्तिप्रकरणम्।
भुक्त्यपसंहारपुरःसरं दिव्यमुपस्थापयति वृहस्पतिः,
“स्थावरस्य तदाख्यातं। लाभभोगप्रसाधनम् ।
* इत्यमेव पाठः सर्वत्र । मम तु, कचिदेकदेशभोगोऽनुपभुक्तप्रत्येक
देशान्तरेषु,--इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, स्थावरस्यैतदाख्यातं,-इति पाठः
प्रतिभाति ।
For Private And Personal Use Only