________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
८
पराशरमाधवः।
"त्यज्यमाने ग्राहक्षेत्रे विद्यमाने तु राजनि ।
भुतिर्यस्य भवेत्तस्य न लेख्यं तत्र कारणम्”--इति । एतच्च लेख्यवैयर्थकथनार्थमुकं, न पुन क्रुः स्वामित्वप्रतिपादनार्धम् । तस्य भोगमात्रेण स्वामित्वामिद्धेः । अपहारेणापि भोगमम्भवात् । श्रतएव कात्यायनः,--
"नोपभोगे बलं कार्यमाह; तत्सुतेन वा ।
पास्त्रीपुरुषादौनामिति धर्मी व्यवस्थितः"--इति । यत्तु याज्ञवल्क्येनोक्रम्,
"पण्यतोऽब्रुवतो भूमेहा॑निर्विंशतिवार्षिकी।
परेण भुज्यमानाया धनस्य दशवार्षिको”-इति । यदपि प्रजापतिनोक्रम्,
"दानकालाद्यदाऽऽरभ्य भुकिर्यस्य विघातिनी ।
समा विंशत्यवधिका तस्यान्तं न विचारयेत्”--इति । तदेतदामेधमकुर्वतां फलहानिविषयम् । न तु भूहानिविषयम् । यस्मात् तत्कालोपलचितभुकेरेव तच प्रामाण्यात्। श्रतएव सहस्पतिः,--
"त्रिपुरुषं भुज्यते थेन समदं भूरवारिता।
तस्य नेवापहर्त्तव्या क्षमालिङ्गेन चेदथ *"--इति । प्राध्यादिपरकस्य न फलहानिरित्याह याजबल्क्यः,--
* क्षमालिन चेयदा, इति का० । मम तु, क्षमालिङ्गं न चेदथ,-.
इति पाठः प्रतिभाति ।
For Private And Personal Use Only