________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
न तत्सुतस्तत्मुतो वा भोग्यहानिस्तयोरपि"--इति । एतदेवाभिप्रेत्य कात्यायन श्राह,--
“आहर्ता युकभुकोऽपि* लेख्यदोषान् विशोधयेत् ।
तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात्” इति । त्रिपुरुषेषु व्यवस्थितं साधकं क्रमेण दर्शयति नारदः,
"श्रादौ तु कारणं भुक्तिमध्ये भुक्रिस्तु मागमा ।
कारणं भुक्तिरेवैका सन्तता या चिरन्तनौ” इति । अक्षरार्थस्तु संग्रहकारेण दर्शितः,
"कृतागमस्योतकाले भुक्तश्च प्रभुरागमः । तस्यैवाथ हतीयस्य प्रभु तिस्तु मागमा ॥ भुकिर्या मा चतुर्थस्य प्रमाणं सन्तता महत् । परित्यकागमा भुतिः केवलैव प्रभुमता"-इति । क्वचित् भुगोरेव प्राबल्यमितराभ्यामित्याह कात्यायनः,--
"रथ्यानिर्गमनद्वारे जलवाहादिमंश्रये ।
भुक्तिरेव तु गुझे स्थात् प्रमाणेविति निश्चयः" -इति । नारदोऽपि,--
"विद्यमानेऽपि लिखिते जीवत्वपि हि साचिषु ।
विशेषतः स्थावरेषु यत्र भुक्रं न तत् स्थिरम्”--दूति । सम्बर्ताऽपि,--
* युक्तमुक्तऽपि,-इति शा। + प्रभुक्तिः स्फुटागमा,-इति का ।
For Private And Personal Use Only