________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
“सम्भोगं केवल यस्तु कौतयेन्नागमं क्वचित् ।
भोगच्छलापदेशेन विज्ञेयः स तु तस्करः” इति । कात्यायनोऽपि,
"प्रणष्टागमलेख्येन भोगारूढेन वादिना ।
कालः प्रमाणं दानञ्चाकौनौयाधिसंसदि” - इति । पञ्चाङ्गेषु विप्रतिपत्तौ साधनौयमित्याह संग्रहकारः,--
“भुक्तिप्रसाधने मुख्याः प्रथमन्तु कृषौबलाः । ग्रामण्यः क्षेत्रसामन्तास्तत्मीमापतयः क्रमात् ॥ लिखितं साक्षिणोभुक्तिः क्रियाः क्षेत्रग्टहादिषु ।
बागमे क्रयदानादौ प्रत्याख्याते चिरन्तने"-इति । क्रयदानादावागमे प्रतिवादिना प्रत्याख्याते सति लिखितमाचिभुक्तयः क्रियाः प्रमाणम् । भुक्तभैदमाह कात्यायनः,
“भुक्तिस्तु द्विविधा प्रोक्ता मागमाऽनागमा तथा । त्रिपुरुषो स्वतन्त्रा तु भवेदल्या तु मागमा” इति । पुरुषत्रयानुगता भुक्तिरागमानुपन्यासेऽपि प्रमाणम् । खल्पा तु भुक्तिरागममहितैव प्रमाणम् । एतदेव* वृहस्पतिः,
"भुक्तिस्त्रपुरुषौ यत्र चतुर्थ सम्प्रवर्त्तिता । तद्भोगः स्थितरां याति न पृच्छेदागम क्वचित् ॥ अनिषिद्धेन यद्भुतं पुरुषैस्त्रिभिरेव तु । तत्र नैवागमः कार्यो भुक्तिस्त्रिपुरुषो यतः" ||
“तत्र नैवागमः कार्यो भुक्तिस्तत्र गरीयसी"-इति वा पाठः । * इत्यमेव पाठः सर्वत्र । मम तु, एतदेवाह,-इति पाठः प्रतिभाति ।
For Private And Personal Use Only