________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
त्रिपुरुषभोगेन षष्टिसंवत्सरादयः उपलक्ष्यन्ते। अतएव व्यासः,
“पूर्वाणि विंशतिं भुत्वा स्वामिनाव्याहता सतौ। भुक्तिः सा पौरुषो ज्ञेया दिगण च दिपौरुषौ ॥ त्रिपुरुषौ त्रिगुणिता तत्र नान्वेय्य श्रागमः"- इति । वृहत्यतिर्नवतिसंवत्सरानुपलक्षयति,
"पितामहो यस्य जौवेज्जीवेच्च प्रपितामहः । त्रिंशत् समा या तु भुक्तिः सा भुकिर्व्याहता परैः ॥ भुक्तिः मा पौरुषो ज्ञेया द्विगुणा च द्विपौरुषो।।
त्रिपौरुषौ च त्रिगुणा परतः सा चिरन्तनौ” इति । स्मृत्यन्नरे पञ्चत्रिंशद्वर्षाणि पौरुषोभोग इत्युक्तम्,
"वर्षाणि पञ्चत्रिंशत्त पौरुषोभोग उच्यते” इति । यदि विंशतिवर्षः पौरुषोभोगः, यदि वा त्रिंशद्वर्षः, पञ्चत्रिंशवर्षा वा, सर्वथाऽपि त्रिपुरुषभोगेन तत्करणयोग्यः कालउपलक्ष्यते । अतएव कात्यायनः,
"स्मार्त काले क्रिया भूमेः मागमा भुक्तिरिय्यते ।
अम्मात्तेऽनुगमाभावात् क्रमान् त्रिपुरुषागता” इति । अनुगमाभावादिति थोम्यानुपलब्ध्यभावेन पागमाभावनिश्चयामम्भवात्। एतदुक्तं भवति ।म्मरणयोग्ये पञ्चाशदधिकशतवर्षपर्यन्तातीनकालमध्ये पारधा भुक्तिस्वेतत्मारप्रमाणावगममूलैव स्वत्वे प्रमाणम् ।
• इत्य मेव पाठः सर्वत्र । वर्षामिा,--- इति ग्रन्थान्तरीयपाटस्तु सम्यक् । + त्रिपात्ममायान्तु भुक्तौ,--इति पा० । + स्वाचिरन्तनी,-- इति का।
For Private And Personal Use Only