________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
मृतः साक्षी प्रमाणन्तु स्वल्पभोगेषु तद्विदुः । प्राप्तं वाऽनेन चेत् किञ्चिदायञ्चात्र निरूपितम् ॥ विनाऽपि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् । *यदि लब्धं न चेत् किञ्चित् प्रज्ञप्तिर्वा कृता भवेत् ।
प्रमाणमेव लिखितं मृता यद्यपि साक्षिण:"--इति । लेख्यानां मिथोविरोधे बाध्यबाधकमाह व्यासः । “खहस्तकाज्ञानपेतं समकालं पश्चिम वा तत्र राजकृतं शुभम्”--इति । साक्षाद्यसम्भवे हारीतः,
“न मयैतल्टात पत्रं कूटमेतेन कारितम् ।
अधरौछत्य तत्पत्रमर्थ दिव्येन निर्णयः”--इति । प्रजापतिः,--
"खनामगोत्रैस्तत्तुल्यं रूपं लेख्यं क्वचिद् भवेत् ।
अग्टहीतधने तत्र कार्या दिव्येन निर्णयः"--इति । कत्नदानासमर्थ प्रति याज्ञवल्क्यः,--
"लेख्यस्य पृष्ठे विलिखेत् दत्वा तदृणिको धनम् ।
धनिकोपगतं दद्यात् स्वहस्तपरिचिहितम्"-"इति । लेख्यदोषमनुद्धरतो दण्डमाह कात्यायनः,--
“कूटोक्तौ माक्षिणां वाक्यं लेखकस्य च पत्रकम् । न चेत् शुद्धिं नयेत् कूटं स दाप्यो दण्डमुत्तमम्”--इति ।
* नास्त्य यं लोकः स० प्रा० पुस्तकयोः।
For Private And Personal Use Only