________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
तथालग्नकञ्चैव बहु कालं न सिद्यति” - इति ।
लेख्यहानेरपवादमाह बृहस्पतिः, - "उन्मत्तजडमूकानां राजभौतिप्रवासिनाम् । अप्रगल्भभयार्त्तानां न लेख्यं हानिमाप्नुयात् ” - इति ।
लेख्यद्धिप्रकारमाह नारदः, -
“दर्शितं प्रतिकालं यत् तथा तु श्रावितं च यत् । न लेख्यसिद्धिः सर्वत्र ऋणिष्वपि हि साचिषु” ॥ कात्यायनोऽपि --
“निर्दोषं प्रथितं यत्तु लेख्यं तसिद्धिमाप्नुयात् । यथादृष्टे स्फुटं दोषं नोक्रवान् ऋणिको यदि ॥ ततो विंशतिवर्षाणि क्रौतं पत्रं स्थितम्भवेत् । शस्य सन्निधावर्थी यस्य लेख्येन भुज्यते ॥ वर्षाणि विंशतिं यावत् तत्परं दोषवर्जितम् । श्रथ विंशतिवर्षाण्यधिकं भुक्तिः सुनिश्चिता ॥ न लेख्येन तु तत्सिद्धं लेख्यदोषविवर्जितम् । सीमाविवादे निर्णीते सौमापत्रं विधीयते ॥ तस्य दोषाः प्रवक्तव्या यावद्दर्षाणि विंशतिः । श्रधानसहितं यत्र ऋणं लेख्यं निवेशितम् ॥
For Private And Personal Use Only
हट
* इत्थमेव पाठः सर्व्वत्र । लेख्यं सिध्यति सर्व्वत्र म्टतेष्वपि च सातिषु, इति ग्रन्थान्तरीयस्तु पाठः समीचीनः ।
+ पत्रं, - इति स० प्रा० ।