________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पराशर माधवः ।
गृहचेचादिकं क्रीत्वा तुल्यमूल्याचरान्वितम् । पत्रङ्कारयते यत्र* क्रयलेख्यं तदुच्यते ॥ जङ्गमं स्थावरं बद्धं यत्र लेख्यं करोति यः । गोप्य भोग्यक्रियायुक्तमाधिलेख्यन्तु तन्मतम् ॥ ग्रामादिसमयात् कुर्य्यात् मतं लेख्यं परस्परम् । राजाविरोधिधर्मार्थं संवित्पत्रं वदन्ति तत् ॥ वस्त्रहीनः कान्तारे लिखितं कुरुते तु यत् । कर्माणि ते करोमीति वासपत्रं तदुच्यते ॥ धनं या गृहीत्वा तु स्वयं कुर्य्याच्च कारयेत् । उद्धारपत्रं तत्प्रोकं ऋणलेख्यं मनौषिभिः ॥ दत्वा भूम्यादिकं राजा ताम्रपत्रे पटेऽथ वा । शासनं कारयेत् धर्मे स्थानवंश्यादिसंयुतम् ॥ अनाच्छेद्यमनाहाय्यं सर्वभाव्य विवर्जितम् । चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥ दातुः पालयितुः स्वर्गं हर्तुर्नरकमेव च । षष्ठिवर्षसहस्त्राणि दानच्छेद फलं लिखेत् ॥ समुद्रं वर्षमासादिधनाभ्यञ्चाचरान्वितम् । दानमेवेति लिखितं सन्धिविग्रहलेखकैः ॥
Acharya Shri Kailassagarsuri Gyanmandir
* यत्तु - इति ग्रन्थान्तरीयः पाठः समीचीनः । + गोप्यं, - इति का० ।
| स्थानपश्वादिकं युतम्, -- इति शा० स० ।
6 पालयतः, -- इति का० ।
For Private And Personal Use Only