SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ छ । प्रायश्चित्तकाण्डम् । "मव्रतस्तु राना दष्टः त्रिरात्रमुपवासयेत् । भटतं यावकं पौवा प्रतशेष समापयेत्” इति । मवतात्रतावुभावपि विप्रान् प्रणिपत्य तैर्नेक्षितौ यथोकप्रायश्चित्ताचरणेन पूतौ भवतः । यस्तु पाना न दष्टः किन्तु नासिकया प्रातः जिहया वाऽवलोढः नखैा लिखितः, एतत्त्रयेपि तं प्रदेश प्रक्षाल्य दहिना सन्ताप्य द्धवाः भवेयुः । यदा ब्राह्मणौ श्वादिभिर्दष्टा भवति, तदा सा रात्राबुदितान् ग्रहान् सोमाङ्गारकादौन् नक्षत्रानि च कृत्तिकादौन्यवलोक्य शुद्धा भवति । कृष्णपचे मेघच्छन्ने मोमदर्शनामम्भवे शाम्बदृश्या तदवस्यानयोग्यां दिशं वा चषाऽवन्तोकयेत् । एतच्चावलोकनं पञ्चगव्यप्राशनस्थोपलक्षणाम् । अतएवाङ्गिरा:, "ब्राह्मणी तु शना दष्टा सोने दृष्टि निपातयेत् । यदा न दृश्यते मोमः प्रायश्चित्तं कथं भवेत् ॥ यां दिशन्तु गतः सोमस्तां दिशचावलोकयेत् । मोममार्गेण मा पूता पञ्चगव्येन शुध्यति"--इति ॥ या तु ममुद्रतौरवासिनौ तस्याः मोमदर्श नाभावे तद्दिगवलोकनवत् ममुद्रदर्शनमपि विद्धिहेतुः । तदाह बौधायन:, "ब्राह्मणौ तु शना दष्टा सोमे दृष्टिं निपातयेत् । समुद्रदर्शनादाऽपि शना दष्टा शुचिर्भवेत्”-इति ॥ यस्मिन् ग्रामे ब्राह्मणा न सन्ति तत्र ब्राह्मणप्रणिपाता निरौ * तैर्निरीक्षितो,--इति मु.। । प्रदक्षिण,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy