________________
Shri Mahavir Jain Aradhana Kendra
ܡܢ 6
www. kobatirth.org
पर (माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
"रहः कृतं प्रकाशञ्च द्विविधं कार्य्यमुच्यते । प्रकाशं साचिभिर्भाव्यं दैविकेन रहःकृतम्” इति ॥ प्रकाशं साचिभिर्भाव्यमित्यस्यापवादमाह वृहस्पतिः, - "महापापाभिशापेषु निचेपे हरणे तथा । दिव्यैः कार्य्यं परीक्षेत राजा मत्स्वपि साचिषु ॥ प्रदुष्टेष्वनुमानेषु दिव्यैः काय्यं विशेोधयेत्” - इति ॥ कात्यायनोऽपि -
*
"समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् । प्राणान्तिक विवादेषु विद्यमानेषु माचिषु ॥ दिव्यमालम्बते वादौ न पृच्छेत् तत्र माचिण: । उत्तमेषु च सर्वेषु साहस्रेषु विचारयेत् ॥ सर्वन्तु दिव्यदृष्टेन मत्सु माक्षिषु वै भृगुः " - इति । व्यासोऽपि -
" न मयैतत्कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पत्रं ह्यर्थे दिव्येन निर्णयः ॥ यन्नामलेख्यं तलेख्यं तुल्यं लेख्यं क्वचित् भवेत् । श्रग्टहीते धने तत्र कार्यो देवेन निर्णय:" - इति ॥ कात्यायन:,
“यत्र स्यात् सोपधं लेख्यं सप्रज्ञेश्चालितं यदि । दिव्येन शोधयेत्तच राजा धम्र्मामनस्थितः " - इति ॥ दिव्यमाचिविकल्पविषयमाह मएव -
“प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु माचिणो दिव्यमेववा ॥ निक्षेपहरणे, - इति का० ।
For Private And Personal Use Only